वांछित मन्त्र चुनें

अर्वाँ॑ इव॒ श्रव॑से सा॒तिमच्छेन्द्र॑स्य वा॒योर॒भि वी॒तिम॑र्ष । स न॑: स॒हस्रा॑ बृह॒तीरिषो॑ दा॒ भवा॑ सोम द्रविणो॒वित्पु॑ना॒नः ॥

अंग्रेज़ी लिप्यंतरण

arvām̐ iva śravase sātim acchendrasya vāyor abhi vītim arṣa | sa naḥ sahasrā bṛhatīr iṣo dā bhavā soma draviṇovit punānaḥ ||

पद पाठ

अर्वा॑न्ऽइव । श्रव॑से । सा॒तिम् । अच्छ॑ । इन्द्र॑स्य । वा॒योः । अ॒भि । वी॒तिम् । अ॒र्ष॒ । सः । नः॒ । स॒हस्रा॑ । बृ॒ह॒तीः । इषः॑ । दाः॒ । भव॑ । सो॒म॒ । द्र॒वि॒णः॒ऽवित् । पु॒ना॒नः ॥ ९.९७.२५

ऋग्वेद » मण्डल:9» सूक्त:97» मन्त्र:25 | अष्टक:7» अध्याय:4» वर्ग:15» मन्त्र:5 | मण्डल:9» अनुवाक:6» मन्त्र:25


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोम) हे परमात्मन् ! आप (सहस्रा) सहस्रों प्रकार के (बृहतीः) बड़े-बड़े (इषः) ऐश्वर्य्यों के (दाः) देनेवाले (भव) हो, क्योंकि आप (द्रविणोवित्) सबप्रकार के ऐश्वर्य्यों के जाननेवाले हैं, इसलिये (पुनानः) ऐश्वर्य्यों द्वारा पवित्र करते हुए (अर्वा इव) गतिशील विद्युत् के समान (श्रवसे) ऐश्वर्य्य के लिये (सातिम्) यज्ञ को (अच्छ) हमारे लिये दें और (इन्द्रस्य) कर्मयोगी को और (वायोरभि) ज्ञानयोगी को (वीतिम्) ज्ञान (अर्ष) दें (सः) उक्तगुणसम्पन्न आप (नः) हमको ज्ञानप्रदान से पवित्र करें ॥२५॥
भावार्थभाषाः - परमात्मा ज्ञानयोगी को नाना प्रकार के ऐश्वर्य्य प्रदान करता है, इसलिये मनुष्य को चाहिये कि वह ज्ञानयोग का सम्पादन करे ॥२५॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोम) हे परमात्मन् ! भवान् (सहस्रा) सहस्रधा (बृहतीः) महतां (इषः) ऐश्वर्याणां (दाः) दातास्ति यतः (द्रविणोवित्) भवान्सर्वैश्वर्यज्ञः अतः (पुनानः) ऐश्वर्येण पावयन् (अर्वा, इव) गतिशीलविद्युदिव (श्रवसे) ऐश्वर्याय (सातिं, अच्छ) यज्ञं प्रयच्छतु (इन्द्रस्य) कर्मयोगिनः (वायोः, अभि) ज्ञानयोगिनश्च (वीतिं, अर्ष) ज्ञानं ददातु (सः) एवंभूतो भवान् (नः) ज्ञानप्रदानेन मां पावयतु ॥२५॥